________________ काव्यमाल। .. [ शैलसुतारुद्धार्धे मूर्धाबद्धभुग्नशशिलेखम् / / शीर्षपरिष्ठितगङ्गं संध्याप्रणतं प्रमथनाथम् // ] क्रियापदाभावादशरीरमिदम् // क्रियापदेति / क्रियेत्युपलक्षणम् / प्रधानपदहीनमिति बोद्धव्यम् / प्रधानाविमर्श हि वाक्यशरीरमेव न निष्पन्नं स्यात् // शैलेति / वाक्ये क्रियाप्रधानमिति दर्शने तत्पदानुपादानादत्र प्रधानाविमर्शः / शैलसुतयावरुद्धमध यस्य / मुद्धाणो मूर्धा तत्राबद्धा भुग्ना शशिलेखा येन / शीर्षे प्रतिष्ठा गङ्गा येन / यश्च संध्याय प्रणतस्तं प्रमथनाथं प्रमथा गणास्तेषां नाथम् / कर्मविभक्तेः क्रियामन्तरेणाचरितार्थत्वात्क्रियाया नमस्काररूपाया व्यभिचारेणापत्तिविषयतानुपपत्तेरिति / अस्यां च गाथायां स्त्रीमयव्यापाररूपता भगवतः प्रतीयते इति रहस्यमाराध्या मन्यन्ते // . गुणभङ्गद्वारकदोषनिरूपणावसरोऽयमित्याशयवानाह गुणानां दृश्यते यत्र श्लेषादीनां विपर्ययः॥ 28 // अरीतिमदिति प्राहुस्तत्रिधैव प्रचक्षते / शब्दार्थोभययोगस्य प्राधान्यात्प्रथमं त्रिधा // 29 // भूत्वा श्लेषादियोगेन पुनस्नेधोपजायते / अत्र यः श्लेषसमता सौकुमार्यविपर्ययः // 30 // शब्दप्रधानमाहुस्तमरीतिमतिदूषणम् / तत्र विपर्ययेण श्लेषस्य संदर्भः शिथिलो भवेत् // 31 // यथा'आलीयं मालतीमाला लोलालिकलिला मनः / निर्मूलयति मे मूलात्तमालमलिने वने // 41 // ' . अत्र भिन्नानामपि पदानामेकपदता प्रतिभासहेतुरनतिकोमलों बन्धविशेषः श्लेषः / तद्विपर्ययेण शब्दप्रधानोऽयं श्लेषविपर्ययः / /