________________ 1 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / . अत्र पञ्चमवर्णस्य लघोः स्थाने गुरोः करणाच्छन्दोमङ्गः // भग्नच्छन्द इति / वाचां श्रव्योऽवच्छेदश्छन्दस्तस्यैवोपमानयुक्तादयस्तेनैव गुरुलघुनिवेशक्रमेण श्रव्यता भवतीत्याशयात् / तस्य विपर्यासश्छन्दोभङ्गो व्यक्त एव वैरस्यहेतुः प्राहुरिति / पञ्चोदाहरणत्वावच्छेदविपर्यासत्वे च भग्नवृत्तव्यवहारादिदमेव निमित्तमस्यावधार्यत इत्यर्थः / पञ्चेति / पञ्चजनाः पुरुषास्ते देवपितृगन्धर्वराक्षसासुरभेदात्पञ्च / अथवा निषादपञ्चमब्राह्मणादिचतुष्टयभेदात् / तमेवात्मानं ब्रह्मापरपर्यायं विज्ञाय श्रवणमनननिदिध्यासनैरुपास्य प्रज्ञा प्रकृष्टं ज्ञानं साक्षाकुर्वीत // अत्र पञ्चमवर्णस्येति / 'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः / षष्ठं गुरुं विजानीयाच्छेषास्त्वनियता मताः // ' इत्यनुष्टुप्छन्दसो लक्षणम् // * अस्थाने विरतिर्यस्य तत्तु भग्नयतीष्यते // 27 // यथा'ब्रह्मेन्द्रोपेन्द्रादिगीर्वाणवन्द्यो भक्तानां भूयाच्छ्येि चन्द्रचूडः / स्त्रीणां संगीतं समाकर्णयन्केतूदस्ताम्भोदं सदध्यास्त ईशः।।३९॥' अत्र चतुर्थस्थाने यतौ कर्तव्यायां तदन्यत्र यतिकरणाद्भनयतीदम् / / अस्थान इति / श्रव्यः पठिति विच्छेदो यतिर्विच्छिद्य विच्छिद्य पठ्यमाना भारती खदते / श्रव्यतोपलक्षणार्थं च द्विमुनिवेदादिसंज्ञया तत्र तत्र विविच्यते / तथा चास्ति कश्चिद्विशेषो येन क्रियमाणापि विरतिर्न सौभाग्यपदं पुष्यति / स च विशेषो नाम भागभेदोऽस्वरसंधिकृतश्च प्रायेण एतेषां स्वभावविशेषादेव स्थाने क्रियमाणापि विरतिरन्यत्रैव परं प्रकाशते / न तत्र कथंचन सौभाग्यमुन्मीलयति / स्थानपरिभाषया व्यावर्तितत्वात् / तदिदमुक्तम्-अस्थान इति / वामनोऽप्याह-'विरसविरामं कष्टम्' इति / सदो गृहरूपा सभा केतूदस्ताम्भोदं ध्वजदण्डोत्क्षिप्तजलधरमित्युच्चस्त्वम् / 'वेदच्छेदा शालिनी मोऽथ तो गौ' इत्युपलक्षणं श्रव्यरतेः / अत्र द्वितीयपादे धातुभागभेदः शेषपादत्रये नामभागभेदाः / न चात्र खरसंधानमस्तीति // . क्रियापदविहीनं यदशरीरं तदुच्यते / . यथा• 'सेलसुआरुद्धद्धं मुद्धाणाबद्धभुद्धससिलेहम् / सीसपरिट्टिअगङ्गं संज्झापणअं पमहणाहम् // 40 //