________________ काव्यमाला। .. [संहतचक्रवाकयुगा विकसितकमला मृणालसंच्छन्ना / वापी वधूरिव रोचनाविलिप्तस्तनी सुखयति // ] अत्र नेत्रबाहूपमापदानां वधूविशेषणत्वेनानुक्तत्वादिदं न्यूनोपमम् / / न्यूनोपममिहेति / इहशब्दो येषु मध्येधूपमानस्य स्तोकविशेषणतयोपमेयन्यूनेत्युक्तं तथाधिकोपममिति वक्ष्यति–संहतेत्यादि / अत्र चक्रवाकयुगोपमानमपदमेव परमुपात्तम् / रोचनाविलिप्तस्तनीत्यनेन कमलस्योपमानं नेत्रपदं मृणालस्योपमानं बाहुपदं च नोपात्तं तदपि च सविशेषणमुपादेयं भवति / येन विकासादिसमभिव्याहारसामञ्जस्यमपि स्यादिति / पदानामिति बहुवचनाभिप्रायः / अत एव धर्माणामेकनिर्देशेऽन्यसंवित्साहचर्यादिति नावतरति व्यभिचारात् / किमर्थं तस्योपमानमनुसंधेयमित्यपि न वाच्यम् / मात्रापि नानर्थिका कविनोपादेयेति साहित्यविदाम्नायव्यवस्थितावुपमेयविशेषणस्योपमानविशेषणतया प्रयोजनचिन्तायां पूर्ववदेव प्रतीतिप्रत्यूहस्य सुलभत्वादनुक्तत्वादितिशब्दप्रधानकतामाचष्टे / एवमुत्तरत्र // . अधिकं यत्पुनस्तैः स्यात्तमाहुरधिकोपमम् // 26 // यथा'अहिणवमणहरविरइअवलअविहूसा विहाइ णववहुआ। कुन्दलएव्व समुप्फुल्लगुच्छपरिणित्तभमरगणा // 37 // ' [अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूः / कुन्दलतेव समुत्फुल्लगुच्छपरिणीयमानभ्रमरगणा // ] इदं भ्रमरगणस्योपमानविशेषणस्याधिक्यादधिकोपमानम् // अधिकमिति / यद्यप्येकस्य विशेषणाधिक्ये विशेषणन्यूनत्वे वान्यविशेषणस्य न्यूनाधिकभावो नियतस्तथाप्युपमानगतमेव द्वयं निरूप्यते। तत्र हि दृष्टमुपमेयें प्रतिबिम्बकल्पमुपस्थाप्यते तेनान्तो नोपमेये तयोर्निरूपणमिति // भग्नच्छन्द इति प्राहुर्यच्छन्दोभगवद्वचः / यथा यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः / / तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः // 38 //