________________ 25 .1 परिच्छेदः / ] सरखतीकण्ठाभरणम् / अत्रापगेव त्वमविगाह्योऽसीति लिङ्गभेदः / नारीणामुत्तितीर्षत इति लिङ्गभेदो वचनभेदश्च / तदिदं द्वयोरेकमेवोदाहरणम् / / यत्रोपमेति / उपमाग्रहणमुपलक्षणमित्यग्रे वक्ष्यामः / उपमा उपमितिः सादृश्यभिन्नोपमानवाचिन उपमेयवाचिनश्च लिङ्गं स्त्रीपुंनपुंसकं यस्य सा तथोक्ता / एवं मिन्नवचनोपममित्यत्रापि व्याख्येयम् // अविगाह्योऽसीति / अविगाह्यतामात्रमत्र सादृश्यं विवक्षितमेतदुपयुक्तमेव विशेषणमुपमानोपमेययोरुपादानयोग्यमित्यकस्मादेव विकृतवचनभेदनिबन्धनः प्रयोजनमाकाहति / तथा तदनुसंधानप्रवणस्य प्रकृतप्रतीतिराच्छाद्यत इति दूषणसिद्धिः / एतेन दूषणता व्याख्याता / विभागवाक्ये सहितावस्थयोरुद्देशादिह च मिलितयोरुदाहरणात्तथाभावो दोषत्वमिति भ्रान्ति निरस्यति-तदिदमिति / एकमुदाहरणं नत्वेकः संभिन्न उपाधिः प्रत्येकमेव त्वस्ति समर्थत्वादित्यर्थः / एतदेवानुसंधाय विभागवाक्ये द्वे पदम् // तत्किमुदाहरणस्य संकीर्णत्वमेव नेत्याहअथ भिन्नलिङ्गस्यैव यथा'वापीव विमलं व्योम हंसीव धवलः शशी / शशिलेखेव हंसोऽयं हंसालिरिव ते यशः // 34 // ' भिन्नवचनस्यैव यथा'सरांसीवामलं व्योम काशा इव सितः शशी / शशीव धवला हंसी हंसीव धवला दिशः // 35 // अथ भिन्नलिङ्गस्यैवेति / द्वयमपि निगदव्याख्यातम् // _ जातिप्रमाणधर्मतो न्यूनता उपमानस्य न्यूनोपमत्वम् / तत्र जातिप्रमाणन्यूनतार्थदोषः / धर्मन्यूनता तु धर्माभिधायकपदन्यूनतालक्षणाशब्ददोष एव / एतेनाधिकत्वं व्याख्यातमित्याशयवानाह• . न्यूनोपममिह न्यूनमुपमानविशेषणैः / यथा• 'संहअचक्कवाअजुआ विअसिअकमला मुणालसंच्छण्णा / वावी वहु व रोअणविलित्तथणआ पुहावेइ // 36 // '