________________ 24 काव्यमाला I. खरूपं खयमेव गुणीभावप्रस्तावे लेशतः प्रकाशयिष्यति तेनेह संक्षिप्तवान् / नैवंविधः कदापि व्यतिकरो महाकविगिरामाजानिकः प्रवर्तते / तथा हि-त्यजतो मङ्गलक्षौमे दधानस्य च वल्कले / ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः // ' अत्र प्रथमादिषु पादेषु क्षौमचीरविस्मितरागपदानि उपनागराणि शेषाणि ग्राम्याणि / प्रतिपादं च प्रकृतिस्थकोमलाभ्यामेव निर्वाहः / एवमन्यत्रापि प्रत्येकं द्वन्द्वसमुदायैः प्रतिपादमुपक्रमोपसंहारनिर्वाहक्रमः खयमुपलक्षणीय इत्यास्तां तावत् // . वाक्यान्तरसगर्भ यत्तदाहुाक्यगर्भितम् // 24 // यथा 'योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया। रक्षनं यदि शक्तिर्मृत्युवशं नीयते विवशः // 32 // ' . अत्र योग्यो यस्ते पुत्रो लक्ष्मणेन मया मृत्युवशं नीयत इति वाक्यस्य रक्षनं यदि शक्तिरिति वाक्यान्तरेण सगर्भवाद्दर्भितम् / / वाक्यान्तरेति / मध्यप्रविष्टं वाक्यं पूर्वोत्तरभागाभ्यामेकीभूतस्य गर्भायमाणमेकवरसप्रसूतां प्रतीति विघ्नयदात्मना सहैव समुदायविरसकक्षामारोहयति / वाक्यान्तरवाक्यस्य विशेषो विवक्षितः प्रतीतिव्यवधायक इति यावत् // योग्य इति। मयेति / कारकविभक्तेः क्रियाकाङ्क्षणशीलायास्तामसंगमय्य मध्ये रक्षैनं शक्तिरित्यतावता गर्भस्थानीयेन विरसीकरणमित्याह-अत्र योग्यो य इति / एवं वाक्यरूपताभङ्गहेतून्दोषानभिधाय तत्रैव काव्यभावप्रत्यूहहेतवोऽभिधातव्यास्ते च गुणभङ्गद्वारकाः, अलंकारभङ्गद्वारकाः, छन्दोभङ्गद्वारकाः, यतिभङ्गद्वारकाश्चेति चतुर्धा विप्रथन्ते / ततश्च यद्यपि प्रथमं गुणभङ्गद्वारका वक्तुमुचितास्तथापि तेषां बहुत्वाद्दुरूहत्वाच्च सूचीकटाहन्यायेन पश्चात्करणमलंकारभेदादिषु च मध्ये प्रतियोगिद्वारालंकारभङ्गस्य प्राधान्यमिति तद्वारा दोषांलक्षयति // यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदुच्यते / भवेत्तद्भिनवचनं यद्भिनवचनोपमम् // 25 // यथा'अविगाह्योऽसि नारीणामनन्यवचसामपि / विषमोपलभिन्नोमिरापगेवोचितीर्षतः // 33 // ..