________________ 244 ] ये किलापोहशक्ति सुगतसूनवो, जातिशक्ति च मीमांसका ये / संगिरन्ते गिरं ते यदीयां नयद्वैतपूतां प्रसह्य श्रयन्ते // श्रीविजय० 3 // कारणं प्रकृतिरङ्गीकृता कापिलः, कापि नैवाऽऽत्मनः काऽपि शक्तिः। बन्धमोक्षव्यवस्था तदा दुर्घटे, त्यत्र जागति यत्प्रौढशक्तिः // श्रीविजय० 4 // .. शाद्विकाः स्फोटसंसाधने तत्परा, ब्रह्मसिद्धौ च वेदान्तनिष्ठाः / सम्मति-प्रोक्तसंङ्ग्रहरहस्यान्तरे, यस्य वाचा जितास्ते निविष्टाः // श्रीविजय० 5 // ध्रौव्यमुत्पत्तिविध्वंसकिर्मीरितं, द्रव्यपर्यायपरिणतिविशुद्धम् / विनसायोगसङ्घात-भेदाहितं, स्वसमयस्थापितं येन बुद्धम् // श्रीविजय० 6 // इति नुतः श्रीविजयप्रभो भक्तितस्तर्कयुक्त्या मया गच्छनेता। श्रीयशोविजयसम्पत्करः कृतधियामस्तु विघ्नापहः शत्रुजेता // श्रीविजय० 7 //