________________ (51) दध्यस्थि-सक्थ्यक्ष्णोऽन्तस्यान् / 1 / 4 / 63 / एषां नपुंसकनाभ्यन्तानां तदतत्सम्बन्धिनि टादौ स्वरादौ परेऽ न्तस्य अन् स्यात् / इत्यन्तस्यानादेशे __ अनोऽस्य / 2 / 1 / 108 / अनोऽकारस्य ङीप्रत्यये स्याद्यधुट्स्वरादौ च परे लुक् स्यात् / अस्थना अस्थिभ्याम् अस्थिभिः / अस्थ्ने अस्थिभ्याम् अस्थिभ्यः। अस्थनः अस्थिभ्याम् अस्थिभ्यः / अस्थनः अस्थ्नोः अस्थ्नाम् / अस्थन्+ङि इति स्थिते ईडौ वा / 2 / 1 / 109 / अनोऽकारस्य औप्रत्ययादेशे ईकारे डौ च परे लुग्वा स्यात्। अस्थिन अस्थनि अस्थ्नोः अस्थिषु / सम्बोधने नामिनो लुग् वा / 1 / 4 / 61 / ___नाम्यन्तस्य नपुंसकस्य स्यमोलुंग् वा स्यात् / लुचः स्थानिवद्भावेन 'हस्वस्य गुणः ' हे अस्थे / लुगभावपक्षे लुब्भवनात् तस्य च स्थानिवद्भावाभवनाद् हे अस्थि अस्थिनी अस्थीनि // एवं दधि दधिनी दधीनि। दधि दधिनी दधीनि / दध्ना दधिभ्यां दधिभिः / दध्ने दधिभ्यां दधिभ्यः / दधनः दधिभ्यां दधिभ्यः।.. दध्नः दध्नोः दध्नाम् / दटिन दधनि दध्नोः दधिषु / हे दधे हे दधि हे दधिनी हे दधीनि / एवं सक्थ्यक्ष्णोरपि // . . ईकारान्तो नपुंसकलिङ्गो ग्रामणीशब्दः