________________ (52) क्लीबे वा / 2 / 4 / 97 / स्वरान्तस्य नपुंसकस्य हवः स्यात् / ग्रामणि+सि / सेलृपि ग्रामणि ग्रामणिनी ग्रामणीनि / ग्रामणि ग्रामणिनी ग्रामणीनि / ग्रामणी+टा इति स्थिते वाऽन्यतः पुमांष्टादौ स्वरे / 1 / 4 / 62 / यो नाम्यन्तशब्दोऽन्यतो विशेषवशाद नपुंसको जातः स टादौ स्वरे परे पुंवद् वा स्यात् / अन्यतो नपुंसकस्य 'उक्तपुंस्क' इति पारिभाषिकं नाम तत्स्वरूपम्-एक एव हि यः शब्दः, त्रिषु लिङ्गेषु वर्तते / एकमेवार्थमाख्याति, उक्तपुंस्कं तदुच्यते // 1 // ग्रामणीशब्दो यथा पुंलिङ्गे वर्तमानो ग्रामकर्मकनीधात्वर्थ क्रियारूपं स्वार्थमभिधत्ते तमेव स्वार्थरूपमर्थं नपुंसके वर्तमानोऽपीति स उक्तपुंस्कः / न च पीलुशब्दः, पुस्खे वृक्षत्वजातिरूपस्वार्थाभिधानात् क्लीवे फलत्वनातिरूपस्वार्थाभिधानाच्च / पुंवद्भावपक्षे यत्वमन्यत्र नोऽन्तत्वम् / ग्रामण्या ग्रामणिना ग्रामणिभ्यां ग्रामणिभिः / ग्रामण्ये ग्रामणिने ग्रामणिभ्यां ग्रामणिभ्यः। ग्रामण्यः ग्रामणिनः ग्रामणिभ्यां ग्रामणिभ्यः / ग्रामण्यः ग्रामणिनः ग्रामण्योः ग्रामणिनोः ग्रामण्यां ग्रामणीनाम् / 'निय आम्' ग्रामण्यां ग्रामणिनि ग्रामण्योः ग्रामणिनोः ग्रामणिषु / हे ग्रामणि हे ग्रामणे हे ग्रामणिनी हे ग्रामणीनि॥ यवक्रीशब्दः-यवक्रि यवक्रिणी यवक्रीणि / पुनरपि तदेव / यवक्रिया यवक्रिणा पुंवत्पक्षे 'संयोगाद्' इतीयादेशः / यवक्रिभ्यां