________________ (50) नपुंसकानामन्यान्यतरेतर-डतर-डतमानां पञ्चानां सम्बन्धिनोः स्यमोः स्थाने द् स्याद् , एकतरं वर्जयित्वा / अन्यद् अन्ये अन्यानि। अन्यद् अन्य अन्यानि / अन्यतरद् अन्यतरे अन्यतराणि / अन्यतरद् अन्यतरे अन्यतराणि / इतरद् इतरे इतराणि / इतरद् इतरे इतराणि / कतरद् कतरे कतराणि / कतरद् कतरे कतराणि / कतमद् कतमे कतमानि / कतमद् कतमे कतमानि / सम्बोधनेऽपि हे कतमद् इत्यादयः। अत्र सिस्थानीयस्यामो लुम्विधानात् 'अदेतः स्यमोठ्क्' इति द्ग् न भवति / शेषं सर्ववत् // प्रथमं प्रथमे प्रथमानि / द्वितीयं द्वितीये द्वितीयानि / द्वयं द्वये द्वयानि / चरम चरमे चरमाणि / एकतरम् एकतरे एकतराणि इत्यादयः // ___ इकारान्तो नपुंसकलिङ्गोऽस्थिशब्दः- अस्थि+सि इति स्थिते अनतो लुप् / 1 / 4 / 59 / अकारान्तभिन्नस्य नपुंसकस्य सम्बन्धिनोः स्यमोलुप् स्यात् / अस्थि ।अस्थि+औ अत्र औ इत्यस्य 'औरीः' इत्यनेन ईकारादेशे। अनाम्स्वरे नोऽन्तः / 1 / 4 / 64 / . नाम्यन्तस्य नपुंसकस्य आम्वर्जस्वरादौ स्यादौ परे नोऽन्तः स्यात् / अस्थिनी / अस्थि+जस् इति स्थिते 'जस्शसोः शिः 'स्वराच्छौ' नि दीर्घः' इत्येतैः अस्थीनि / पुनरपि अस्थि अस्थिनी अस्थीनि / अस्थि+टा इति स्थिते