________________ (49) अथ स्वरान्तनपुंसकलिङ्गाः। अकारान्तो नपुंसकलिङ्गः कुलशब्दः-कुल+सि इति स्थिते / अतः स्यमोऽम् / 1 / 4 / 57 / अकारान्तनपुंसकसम्बन्धिनोः स्यमोरमादेशः स्यात्। कुलम् / कुल+औ इति स्थिते ......औरीः / 1 / 4 / 56 / ... नपुंसकसम्बन्धिन औप्रत्ययस्य स्थाने ईकार: स्यात् / कुले। कुल+जस् इति स्थिते नपुंसकस्य शिः / 1 / 4 / 55 / ' नपुंसकसम्बन्धिनोर्नस्-शसोः शिः स्यात् / शकारः 'शिवुटर इत्यत्र विशेषणार्थः / कुल+इ इति स्थिते / स्वराच्छौ / 1 / 4 / 65 / .. जस्-शसादेशे शौ परे स्वरान्ताद् नपुंसकात् परो नोऽन्तादेशः स्यात् / नि दीर्घः / 1 / 4 / 85 / .. शेषे घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घः स्यात् / कुलानि / कुलं कुले कुलानि / शेषं देववत् / एवं धन-वन' -मूल-फल-सर्व-विश्वादयः // अन्य+सि इति स्थिते ‘पञ्चतोऽन्यादेरनेकतरस्य दः।१।४।५८ /