________________ (118) / गौणमुख्यकर्मनिरूपणम् / न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः / नयते गौर्द्विनैमं भारो ग्राममयोह्यते // 13 // गौणं कर्भ दुहादीनां प्रत्ययो वक्ति कर्मनः। गौः पयो दुह्यतेऽनेन शिष्योऽर्थ गुरुणोच्यते // 14 // ।धातूपसर्गजन्यभेदप्रकाशनिरूपणम् / बीजकालेषु सम्बद्धा यथा लाक्षारसादयः / वर्णादिपरिणामेन फलानामुपकुर्वते // 15 // बुद्धिस्थादपि सम्बन्धात् तथा धातूपमर्गयोः / अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते / / 16 // निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः / अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् // 17 / / अनुबन्धफलनिरूपणम्। उच्चारणेऽस्त्यवर्णाद्य आस्क्तयोरिनिषेधने / इकारादात्मनेपदमीकाराचोभयं भवेत् // 1 // उदितः स्वरान्नोन्तश्चोरक्तादाविटो विकल्पनम् / रुपान्त्ये डे परे ह्रस्व ऋकारादड्विकल्पकः // 2 //