________________ (403 ) भोक्तुम् / समर्थः भोक्तुम् / अलं भोक्तुम् / प्रभवति भोक्तुम् / ईष्टे भोक्तुम् / इच्छार्थेषु इच्छति भोक्तुम् / वाञ्छति पठितुम् / अभिलषति जिनं पूजितुम् / आकाङ्क्षति प्रतिष्ठाप्यमानां श्रीविजयधर्मसूरेर्मूर्ति द्रष्टुं पूजितुं वा / इति समाप्तमुत्तरकृदन्तप्रकरणम् / तत्समाप्तौ च समाप्तं धर्मदीपिकाव्याकरणम् / BXXXXXXXX ExomxxanaxxcmoxxcmXWEAR* xaxxo..nxxxaxeg इति नन्द-ऋषि-ग्रह-भूमिमिते विक्रमीयेऽब्दे नयनमिते च श्रीविनयधर्मीयेऽब्दे विजयदशम्यां शास्त्रविशारदजैनाचार्य-श्रीमद् विजयधर्मसूरीश्वरचरणारविन्दे भृङ्गायमाणेन श्रीमन्न्यायविशारदन्यायतीर्थेत्युपाधियुक्तेन रचितन्याय-धर्मविषयानेकशास्त्रेण प्रवर्तकेन साम्प्रतं समुपजातोपाध्यायपदेन मुनिराजश्रीमङ्गलविजयेन रचिता धर्मदीपिका समाप्ता / ॐ शान्तिः / शान्तिः / शान्तिः / Larenxxaxxxa...nxxanxxxnxxantarax KXXXX OOO AIME