________________ ग्रन्थकर्तुः प्रशस्तिः। * [1] : चेतश्चमत्करणकारितया विपश्चितां ___ तत्त्वप्रबोधनविधौ समता-विकासने / विभ्राजते कलियुगेऽपि यदीय-शासनं / तस्मै नमो भगवते " त्रिशलाङ्गजन्मने " || . [2] . जीयाद् गणेशोऽस्य महेश्वरस्य "श्रीइन्द्रभूति" हतविघ्ननालः / पयोनिधिलब्धि-तरंगिणीनां दावानलः कष्टवनावनीनाम् // [3] नन्द्यात् सुधर्मा भगवान् " सुधर्मा " श्रीवीरपट्टादिमसूत्रधारः। यदीय एकादश-संख्यकाङ्ग दीपो जगद् दीपयतेऽधुनापि //