________________ (402) तूष्णीमा / 5 / 4 / 87 / तूष्णींशब्देन योगे भुवोः धातोः सम्बन्धे क्त्वाणमौ प्रत्ययौ भवतः / तूष्णीभूत्वा, तूष्णीभूय, तूष्णींभावमास्ते / तूष्णींशब्दस्य मौने मौनवति च वर्तमानत्वेन मौनेन सह भूत्वा वा मौनवान् भूत्वाऽऽस्ते इत्यर्थः / ___ आनुलोम्येऽन्वचा / 5 / 4 / 88 / परिचित्ताराधनमानुलोम्यमनुकूलता.इत्यर्थः / अन्वचव्ययेन योगे भूधातोः तुल्यकतृकार्थस्य धातोः सम्बन्धे क्त्वा णम् च भवतः आनुलोम्ये गम्ये / अन्बग्भूत्वा, अन्वग्भय, अन्वम्भावमास्ते / अनुकुलो भूत्वा तिष्ठतीत्यर्थः / आनुलोम्य इति किम् ! अन्वग् भूत्वा शत्रुन् जयति-पश्चाद् भूत्वा जयतीत्यर्थः / शकषज्ञारभलभसहाईग्लाघटास्तिसमर्थार्थे च तुम् / 5 / 4 / 90 / शक्त्याद्यर्थकेषु धातुषु समर्थार्थकेषु च नामसु चकारादिच्छाथकेषु च धातुषूपपदेषु कर्मभूताद् धातोः तुम् प्रत्ययो भवति / शक्नोति भोक्तुम् / पारयति भोक्तुम् / धष्णोति भोक्तुम् / अध्यवस्यति भोक्तुम् / भोक्तुं वेत्ति वा जानाति / प्रक्रमते आरभते वा भोक्तुम् / लभते विन्दते वा भोक्तुम् / सहते क्षमते वा भोक्तुम् / अर्हति प्राप्नोति वा भोक्तुम् / ग्लायति म्लायति वा भोक्तुम् / घटते युज्यते वा भोक्तुम् / अस्ति भोक्तुम् / विद्यते