________________ (401 ) गम्ये तिर्यच् इत्यव्ययेन योगे करोतेः तुल्यकर्तृकेऽर्थे क्त्वा णम् च वा भवतः / तिर्यक् कृत्वा, तिर्यकृत्य, तिर्यकारमास्ते / समाप्य विरम्य उत्सृज्य वाऽऽस्त इत्यर्थः / स्वागतः प्रक०पर्थे नानाविधाधार्थेन भुवश्च। 5 / 4 / 86 / तस्प्रत्ययान्तेन स्वाङ्गेन च्यर्थवृत्तिभिः नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योगे भुवः कृगश्च तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे क्त्वा णम् च भवतः। नात्र यथासंख्यं वचनभेदात् / मुखतो भूत्वा, मुखतोभूय, मुखतोभावमास्ते / मुखतः कृत्वा, मुखतः कृत्य, मुखतः कारमास्ते / पार्श्वतो भूत्वा, पार्श्वतोभूय, पार्श्वतोभावं शेते / पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वतः कारं शेते / व्यर्थे अनाना नाना भूत्वा गत इति नानाभूत्वा, नानाभूय, नानाभावं गतः / अनाना नाना कृत्वा गतः इति नानाकृत्वा, नानाकृत्य, नानाकारं गतः / एवं विनाभूत्वा, विनाभूय, विनाभावं गतः; विनाकृत्वा, विनाकृत्य, विनाकारं गतः / धार्थः न द्विधा अद्विधा अद्विधा द्विधा भत्वा यातः इति द्विवाभूत्वा, द्विधाभूय, द्विधाभावं यातः / एवं द्विधाकृत्वा, द्विधाकृत्य, द्विधाकारं यातः / ऐकध्यं भूत्वा, ऐकध्यंभूय, ऐकध्यंभावं गतः / द्वेधाकृत्वा, द्वेधाकृत्य, द्वेधाकारं गतः / स्वाङ्गेति किम् ? सर्वतो भत्वाऽऽस्ते / तप्तिति किम् ? मुखे भूत्वा गतः / व्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि मुक्ते। 26