________________ ( 398) पञ्चम्या त्वरायाम् / 5 / 4 / 77 / त्वरा औत्सुक्यम् , तस्यां गम्यमानायां पञ्चम्यन्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे णम् वा भवति / शय्याया उत्थायं शय्योत्थायं धावति / पक्षे शय्याया उत्थाय धावति / द्वितीयया / 5 / 4 / 78 / . द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे णम् वा भवति त्वरायां पायाम् / लोष्ठान् ग्राहं लोष्ठयाहं युध्यन्ते / एवं यष्टीः ग्राहं यष्टिग्राहं युध्यन्ते / दण्डमुद्यामं दण्डोद्यामं धावति / एवं योद्धं त्वरन्ते यदायुधग्रहणमपि नाद्रियन्ते ।यत्किञ्चिदासन्नं तद् गृह्णन्ति / पक्षे लोष्ठान् गृहीत्वा युध्यन्ते इत्यादि / ___ स्वाङ्गेनाध्रुवेण / 6 / 4 / 79 / / व्याकरणशास्त्रोक्तं स्वाङ्गमत्र ग्राह्यम् ‘अविकारोऽद्रवमित्याविलक्षणम् , यस्मिन्नङ्गे च्छिन्ने प्राणी न म्रियते तदध्रुवम् , अध्रुयेण स्वाङ्गेन द्वितीयान्तेन योगे सति तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे सति णम् वा भवति / भ्रुवौ विक्षेपं भ्रूविक्षेप जल्पति / अक्षिणी निकाणम् अक्षिनिकाणं हसति / केशान् परिधायं केशपरिधायं नृत्यति। पक्षे भ्रवौ विक्षिप्य जल्पति / स्वाङ्ग्रेनेति किम् ? कफमुन्मूल्य जल्पति / अध्रुवेणेति किम् ? शिरः उत्क्षिप्य कथयति /