________________ ( 399) परिक्लेश्येन / 5 / 4 / 80 / परिपीड्यमानेन द्वितीयान्तेन स्वाङ्गेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे णम् वा भवति / उरांसि प्रतिपेषम् उरः प्रतिपेषं युध्यन्ते / शिरांसि च्छेदं शिरश्छेदं युध्यन्ते / पक्षे उरांसि प्रतिपिष्य शिरांसि छित्त्वा युध्यन्ते / विश-पत-पद-स्कन्दो वीप्साऽऽभीक्ष्ण्ये / 5 / 4 / 81 / क्रियाभिः पदार्थानां व्याप्तुमिच्छा. वीप्सा, प्रकृत्यथस्य पौनःपुन्येनासेवनम् आभीक्ष्ण्यम् , द्वितीयान्तेन योगे विशादिभिस्तुल्यकर्तृकेऽर्थे वर्तमानेभ्यो धातुभ्यो वीप्सायामाभीक्ष्ण्ये च गम्यमाने धातोः सम्बन्धे णम् वा भवति / गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते / गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते / गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते / गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते / एवं गेहं गेहमनुप्रपादं गेहानुप्रपादमित्यादि / गेहं गेहमवस्कन्दं गेहावस्कन्दमित्यादि / पक्षे गेहं गेहमनुप्रविश्यास्ते / गेहमनुप्रविश्यानुप्रविश्यास्ते / गेहानुप्रवेशमित्यत्र वीप्सायामाभीक्ष्ण्ये च न द्वित्वं, शब्दशक्तिस्वाभाव्यात् समासेनोक्तत्वाद् , न च स्वभावः पर्यनुयोगमहतीति / विकल्पेनोपपदसमासार्थ वचनम् / कालेन तृष्यस्वः क्रियान्तरे / 5 / 4 / 82 / ...क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः, तस्मिन्नर्थे वर्तमानाभ्यां तृष्यसूभ्यां धातुभ्यां द्वितीयान्तेन कालवाचिना यो