________________ (397) यते / दण्डेनाताडं दण्डाताडं गाः कलयति / पक्षे दण्डेनोपहत्येत्यादि / हिंसादिति किम् ? चन्दनादिना महावीरं जयति / एकाप्यादिति किम् ? दण्डेनाहत्य चैत्र गोपालः धनू : खेटयति उपपीड-रुध-कर्षस्तत्सप्तम्या / 5 / 4 / 75 / तृतीयायुक्ता सप्तमी तत्सप्तमी / तृतीयान्तेन सप्तम्यन्तेन च योगे सति उपपूर्वेभ्यः पीडरुधकर्षभ्यस्तुल्यकर्तृकेऽर्थे वर्तमानेभ्यो . धातोः सम्बन्धे णम् वा भवति / पार्थाभ्यामुपपीडं पार्थोपपीडं शेते / पार्श्वयोरुपपीडं पार्थोपपीडं शेते / व्रजेनोपरोधं व्रजोपरोधं गाः सादयति / बजे उपरोधं व्रजोपरोधं गाः स्थापयति / पाणिनोपकर्ष पाण्युपकर्ष धानाः पिनष्टि। पाणावुपकर्ष पाण्युपकर्ष धानाः गृह्णाति / कर्पतेः शवो निर्देशादै भौवादिकस्य ग्रहणं न तौदादिकस्य / तेन भूमौ उपकृष्य तिलान् वपति इति विलेखनार्थस्य न णम् / प्रमाण-समासत्त्योः / 5 / 4 / 76 / आयाममानं प्रमाणम् , समासत्तिः संरम्भपूर्वकः सन्निकर्षः, तयोः गम्यमानयोः तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे सति णम् वा भवति / व्यङ्गुलेनोत्कर्ष द्वयङ्गुलोत्कर्ष गण्डिकाः छिनत्ति / व्यङ्गुले उत्कर्ष द्वयगुलोत्कर्ष गण्डिकाश्छिनत्ति / समासत्तिः केशैाह . केशग्राहं युध्यन्ते / केशेषु ग्राहं केशमाहं युध्यन्ते / पक्षे द्वयङ्गुलेनोत्कृष्य व्यङ्गुले उत्कृष्य गण्डिकाः छिनत्ति इत्यादि /