________________ ( 396 ) उपमानार्थाद् व्याप्यात् कर्तुश्च पराद धातोः तस्यैव सम्बन्धे छाम् वा भवति / सुवर्णनिधायं निहितः सुवणमिव निहित इत्यर्थः / रत्ननिधायं निहितः / ओदनपाकं पक्वः / कर्तुः काकनाशं नष्टः / काक इव नष्ट इत्यर्थः / जमालिनाशं नष्टः / अभ्रविलायं विलीनः अभ्रमिव विलीन इत्यर्थः / उपात् किरो लवने / 5 / 4 / 72 / लवनेऽर्थे वर्तमानादुपपूर्वात् किरतेः अन्यधातोः सम्बन्धे णम् वा भवति / लवनग्रहणात् तस्यैव संबन्धे इति निवृत्तम् / उपस्कार मद्रका लुनान्ति विक्षिपन्तः लुनन्ति इत्यर्थः / ___ दंशेस्तृतीयया / 5 / 4 / 73 / तुल्यकर्तृकेऽर्थे वर्तमानादुपपूर्वाद दंशेस्तृतीयान्तेन योगे सति अन्यस्य धातोः सम्बन्धे सति णम् वा भवति / मूलकेनोपदंश भुङ्क्ते / अत्र ' तृतीयोक्तं वा' इति समासस्य विकल्पनाद मूलकोपदंशं भुङ्क्ते इत्यपि / पक्षे मूलकेनोपदश्य भुङ्क्ते / एवमार्द्रकोपदंशम् , आर्द्रकेणोपदंशम् , आर्द्रकमुपदश्य भुङ्क्ते इत्यादि। हिंसा देकाप्यात् / 5 / 4 / 74 / ... हिंसाद् धातोः सम्बध्यमानेन धातुना सहैकाप्यात् तृतीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् णम् वा भवति / दण्डेनोपघातं दण्डोपघातं गाः सादयति / खड्नेन प्रहारं खड्गप्रहारं शत्रून् विज