________________ ( 395) __बन्धेर्नाम्नि / 5 / 4 / 67 / बन्धिः प्रकृतिः नामविशेषणं च, बन्धनस्य यद् नाम तद्विपयात् बन्ध्यर्थस्य बन्धेः करणवाचिनः परात् तस्यैव सम्बन्धे णम् वा भवति / क्रौञ्चबन्धं बद्धः / मर्कटबन्धं बद्धः / मयूरिकाबन्धं बद्धः। क्रौञ्चाद्याकारो बन्धः क्रौञ्चादिशब्देनोच्यते, तेन बन्धेन बद्धः / क्रौञ्चाद्याकारकेण बन्धेन बद्ध इत्यर्थः / ____- आधारात् / 5 / 4 / 68 / - आधारवाचिनः पराद् बन्धेस्तस्यैव सम्बन्धे सति णम् वा भवति / चक्रबन्धं बद्धः / चारकबन्धं बद्धः / गुप्तिबन्धं बद्धः चक्रादिषु बद्ध इत्यर्थः / कतुर्जीव-पुरुषाद् नश-वहः। 5 / 4 / 69 / कर्तृवाचिभ्यां जीव-पुरुषाभ्यां पराभ्यां यथासंख्यं नशिवहिभ्यां तस्यैव धातोः सम्बन्धे णम् वा भवति / जीवनाशं नश्यति जीवन् नश्यति / पुरुषवाहं वहति पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः / ऊर्ध्वात् पूःशुषः। 5 / 4 / 70 / कर्तृवाचकाऊर्ध्वशब्दात् पूरः शुषश्च तस्यैव धातोः सम्बन्धे सति णम् वा भवति / ऊर्ध्वपूरं पूर्यते / ऊर्ध्वः पूर्यते इत्यर्थः / ऊर्ध्वशोषं शुष्यति ऊर्ध्वः शुष्यतीत्यर्थः / . व्याप्याच्चेवात / 5 / 4 / 71 / /