________________ ( 394) णम् वा भवति / समूलकाषं कषति समूलं कषतीत्यर्थः / ससूलघातं हन्ति समूलं हन्तीत्यर्थः / करणेभ्यः। 5 / 4 / 64 / करणात् कारकात् पसद् हन्तेः णम् वा भवति तस्यैव धातोः सम्बन्धे / पाणिघातं कुड्यमाहन्ति, पाणिना कुड्यमाहन्तीत्यर्थः, बहुवचनात् करणपूर्वाद हिंसादपि हन्तेरनेनैव णम्, न तु ' हिंसार्थादेकाप्यात्' इत्यनेन / अस्युपघातमरीन् हन्ति / अनेन णमि नित्यसमासः / / स्वस्नेहार्थात् पुष-पिषः। 5 / 4 / 65 / / करणवाचिनः स्वार्थात् स्नेहार्थाच्च पराद यथासंख्यं पुषः पिषश्च तस्यैव सम्बन्धे सति णम् वा भवति / स्वपोषं पुष्णाति / आत्मपोषं पुष्णाति / स्वशब्दस्यात्मात्मीयज्ञातिधनार्थत्वेन गोपोषं महिषीपोषं मातृपोषं धनपोषं च पुष्णातीत्याद्यपि / स्वादिभिः पुष्णातीत्यर्थः / स्नेहार्थाद् उदपेषं पिनष्टि / घृतपेषं तैलपेपं क्षीरपेषं वा पिनष्टि / उदकादिना पिनष्टीत्यर्थः / / हस्ताथाद् ग्रह-वर्ति-वृतः / 5 / 4 / 66 / हस्तार्थककरणवाचिनः पराद् ग्रहवर्तिवृतः तस्यैव सम्बन्धे णम् वा भवति / हस्तग्राहं गृह्णाति / करग्राहं गृह्णाति / पाणिग्राहं गृह्णाति / हस्तेन गृह्णातीत्यर्थः / हस्तवत वर्तयति हस्तेन वर्तयतीत्यर्थः / हस्तवः वर्तते / करवर्त वर्तते / हस्तेन वर्तत इत्यर्थः / वर्तिवृत इति वृतेय॑न्तस्याण्यन्तस्य च ग्रहणम् / /