SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ( 393) गोत्र-पुरुषात् स्नः / 5 / 4 / 59 / - गात्ररूपात् पुरुषरूपाच्च व्याप्यात् परादन्तर्भूतण्यर्थात् स्नातेस्तुल्यकर्तृकेऽर्थे वर्तमानाद् वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा भवति / गात्रस्नायं वृष्टो देवः / पुरुषस्नायं वृष्टो मेघः / यावता गात्र पुरुषश्च स्नाप्यते तावद् वृष्टः / शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव / 5 / 4 / 60 / एभ्यो व्याप्येभ्यः परात् पिषेः तस्यैव धातोः सम्बन्धे णम् वा भवति / शुष्कपेषं पिनष्टि / चूर्णपेषं पिनष्टि / रूक्षपेष पिनष्टि / शुष्कं चूर्ण रूक्षं वा पिनष्टीत्यर्थः / कृग-ग्रहोऽकृत-जीवात् / 5 / 4 / 61 / ___अकृत-जीवाभ्यां व्याप्याभ्यां पराभ्यां कृग्-अहिभ्यां यथासंख्यं तस्यैव धातोः सम्बन्धे णम् वा भवति / अकृतकारं करोति अकृतं करोतीत्यर्थः / जीवग्राहं गृह्णाति जीवन्तं गृह्णातीत्यर्थः / निमूलात् कषः। 5 / 4 / 62 / . निमूलाद् व्याप्यात् परात् कषेस्तस्यैव धातोः सम्बन्धे णम् वा भवति / निमूलकाषं कषति निमूलं कषतीत्यथः / पक्षे निमूलस्य कार्ष कषति / हनश्च समूलात् / 5 / 4 / 63 / समूला व्याप्यात् पराद् हन्तेः कषेश्च तस्यैव धातोः सम्बन्धे
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy