________________ ( 392) यावतो विन्द-जीवः / 5 / 4 / 55 / .. कात्य॑युक्तव्याप्याद् यावच्छब्दात् पराभ्यां विन्दजीविभ्यां तुल्यकर्तृके वर्तमानाभ्यां धातोः सम्बन्धे णम् वा भवति / यावदवेदं भुक्ते यावल्लभते तावद् मुक्ते इत्यर्थः / यावज्जीवमधीते याव जीवति तावदधीत इत्यर्थः / चर्मोदरात पूरेः। 5 / 4 / 56 / . चर्मोदराभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकेऽर्थे वर्तमानात् पूरेः णम् प्रत्ययो वा भवति / चर्मपूरमास्ते चर्म पूरयित्वा आस्ते इत्यथः / उदर रं शेते उदरं पूरयित्वा शेते इत्यर्थः / वृष्टिमाने ऊलुक चास्य वा / 5 / 4 / 57 / ___कर्मणः परात् पूरयतेर्धातोः धातोः सम्बन्धे णम् वा भवति / अस्य च पूरयतेरूकारस्य लुग् वा भवति / समुदायेन चेद् वृष्टेरियत्ता गम्यते / गोष्पदनं गोष्पदपूरं वा वृष्टो मेघः / गङ्गाप्रं गंगापूर वा वृष्टो देवः / यावता गोष्पदादिः पूरणो भवति तावद् वृष्ट इत्यर्थः / चेलार्थात् क्नोपेः / 5 / 4 / 58 / : चेलार्थाद् व्याप्यात् परात् तुल्यकर्तृकार्थात् क्नोपयतेः वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा भवति / चेलक्नोपं वृष्टो देवः / एवं वस्त्रक्नोपं वसनक्नोपं वा वृष्टो मेघः / यावता चेलमार्दीभवति तावद् वृष्ट इत्यर्थः /