________________ पे व्याप्यात् ।मानात् कृगः धाता चौरं (391) यथातथाभ्यां परात् तुल्यकर्तृकेऽथ वर्तमानाद् अनर्थकात् कृगः धातोः सम्बन्धे ख्णम् वा भवति, ईर्ण्यश्चेदुत्तरं करोति तत्र / कथ भवान् भोक्ष्यते ? इति पृष्टः सन् असूयया तमुत्तरयति यथाकारमहं भोक्ष्ये, तथाकारमहं भोक्ष्ये किं तवानेन ? / शापे व्याप्यात् / 5 / 4 / 52 / कर्मणः परात् तुल्यकर्तृकेऽर्थे वर्तमानात् कृगः धातोः सम्बन्धे ख्णम् वा भवति, आक्रोशे गम्यमाने / चौरंकारमाक्रोशति-चौरं कृत्वा चौरशब्दमुच्चार्याक्रोशतीत्यर्थः, चौरोऽसीत्याक्रोशति इति फलितोऽर्थः / स्वाद्वाददीर्घात् / 5 / 4 / 53 / स्वाद्वर्थे वर्तमानाददीर्घान्ताद् व्याख्यात् परस्मात् तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेः धातोः सम्बन्धे ख्णम् वा भवति / स्वादुंकारं भुङ्क्ते / मिष्टंकारं मुङ्क्ते / पक्षे स्वादुं कृत्वा, मिष्टं कृत्वा मुङ्क्ते / अदीर्घादिति किम् ? स्वाद्वीं कृत्वा यवागू मुफ्ते / विद्-दृग्भ्यः कात्स्न्ये णम् / 5 / 4 / 54 / काययुक्तव्याप्यात् परेभ्यस्तुल्यकर्तृके वर्तमानेभ्यो विदिभ्यः दृशेश्च धातोः सम्बन्धे णम् वा भवति / अतिथिवेदं भोजयति। यं यमतिथिं जानाति लभते विचारयति वा तं तं भोजयतीत्यर्थः / कन्यादर्श वरयति यां यां कन्यां पश्यति तां सर्वां वरयतीत्यर्थः / बहुवचनात् त्रयोऽपि विदो गृह्यन्ते /