________________ ( 390) ख्णम् चाभीक्ष्ण्ये / 5 / 4 / 48 / - आभीक्ष्ण्ययुक्ते परकालिकधात्वर्थेन सह तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे ख्णम् चकारात् क्त्वा च वा भवति / भोनं भोजं व्रजति / मुक्त्वा मुक्त्वा वनति / पायं पायं गच्छति / पीत्वा पीत्वा गच्छति / पूर्वाग्रे प्रथमे / 5 / 4 / 49 / पूर्वादिषूपपदेषु प्राक्कालार्थे वर्तमानाद् धातोः धातोः सम्बन्धे ख्णम् वा भवति / अनाभीक्ष्ण्यार्थं वचनम् / पूर्व भोनं व्रजति / पूर्व मुक्त्वा व्रजति / अग्रे भोजं याति / अग्रे भुक्त्वा याति / प्रथम भोजं गच्छति / प्रथम मुक्त्वा गच्छति / पूर्व भोजनं कृत्वा ततः एतीत्यर्थः / अन्यथैवंकथमित्थमः कृगोऽनर्थकात् / 5 / 4 / 50 / ___एभ्यः परात् तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेरनर्थकाद् धातोः सम्बन्धे रुणम् वा भवति / अन्यथाकारं मुफ्ते / एवंकारं भुङ्क्ते / कथंकारं भुङ्क्ते / इत्थंकारं भुङ्क्ते / पक्षे क्त्वा अन्यथा कृत्वा भुङ्क्ते इत्यादि / करोतेरन्यथादिभ्यः पृथगर्थाभावादनर्थकत्वम् / यावता अन्यथा भुङ्क्ते इत्युच्यते, तावता अन्यथाकारमित्यप्युच्यते / अत्र समासोऽपि नित्यः ङस्युक्तत्वात् / - यथा-तथादीयॊत्तरे / 5 / 4 / 51 /