________________ ( 389) निषेधेऽलं-खल्वोः क्त्वा / 5 / 4 / 44 / * निषेधार्थयोरलंखल्वोरुपपदयोः धातोः क्त्वा प्रत्ययो वा भवति / अलं कृत्वा / खलु कृत्वा / न कर्तव्यमित्यर्थः / पक्षे यथाप्राप्तम् / अलं वत्स रोदनेन / अलं रुदितेन / परावरे / 5 / 4 / 45 / परावरयोः गम्यमानयोः धातोः क्त्वा प्रत्ययो वा भवति / अतिक्रम्य वलभी शत्रुञ्जयः, वलभ्याः परः इत्यर्थः / यौवनमतिक्रम्य वार्धकम् यौवनात् परमित्यर्थः / अवरे अप्राप्य नदी पर्वतः नद्या अर्वागित्यर्थः / अप्राप्य यौवनं वाल्यम् / निमील्यादि-मेङ तुल्यकर्तृ के / 5 / 4 / 46 / धात्वर्थान्तरेण तुल्यः कर्ता यस्य स तुल्यकर्तृकः, तस्मिन्नर्थे वर्तमानेभ्यो निमील्यादिभ्योः मेडश्च धातोः सम्बन्धे सति क्त्वा वा भवति / नेत्रे निमीत्य हसति / मुखं व्यादाय स्वपिति / दन्तान प्रकाश्य जल्पति। अपमाय अपमित्य याचते / निमिल्यादीनां समानकालार्थः, मेङ: परकालार्थश्चारम्भः / पूर्व हि याचते पश्चादपमयते। प्राक्काले / 5 / 4 / 47 / परकालेन धात्वर्थेन तुल्यकर्तृके प्राकालेऽथै वर्तमानाद् धातोः धातोः सम्बन्धे क्त्वा वा भवति / आसित्वा भुङ्क्ते / मुक्त्वा ब्रजति / स्नात्वा भुङ्क्ते / पीत्वा व्रजति / पक्षे आस्यते भोक्तुमित्यादि / प्राक्काल इति किम् ? आस्यते, भुज्यते, पीयते /