________________ ( 388) दुःखेन क्रियते इति दुष्करः, ईषत्करः कटो भवता / दुष्करम् , सुकरम् , ईषत्करं भवता / व्यर्थे कम्प्याद् भूकृगः / 5 / 3 / 140 / ___कृच्छ्राकृच्छ्रार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां च्व्यर्थे वर्तमानाभ्यां कर्तृकर्मवाचिभ्यां शब्दाभ्यां पराभ्यां यथासंख्यं भूकृष्भ्यां परः खल् प्रत्ययो भवति / दुःखेनानाढ्येनाव्येन भूयते दुराड्यंभवं त्वया। सुखेनानाढ्येनाढ्येन भूयते स्वाड्यंभवं मया / ईपदाढ्यंभवं भवता / . दुःखेनानाड्यः आढ्यः क्रियते दुराड्यंकरः मैत्रो भवता / सुखेनानाढ्यः आङ्यः क्रियते स्वाड्यंकरो मैत्रो भवता / ईपदाढ्यंकरो मैत्रो भवता / वीरणानि सुखेनाकट: कट: क्रियन्ते इति सुकटंकराणि वौरणानि / मृत् सुखेनाघटः घटः क्रियते इति सुघटंकरा मृद् / च्व्यर्थ इति किम् ? दुराड्येन भूयते / स्वाड्येन भूयते / ईषदाढ्येन भूयते / आढ्य एव किञ्चिद् विशेषमापद्यते / एवं दुराख्यः क्रियते। शासूयुधिशिधृषिमृषातोऽनः / 5 / 3 / 141 / कृच्छ्राकृच्छ्रार्थकदुःस्वीपत्पूर्वेभ्यः शासूप्रभृतिभ्य आदन्तेभ्यश्च धातुभ्यो भावकर्मणोरनः प्रत्ययो भवति / दुःखेन शिष्यते इति दुःशासनः / सुखेन शिष्यते सुशासनः / ईषच्छासनः / एवं दुर्योधनः / दुर्दर्शनः / दुर्धर्षणः / दुर्मर्षणः / आदन्तः दुरुत्थानं त्वया / सूत्थानं चैत्रेण / ईषदुत्थानं भवता / दुष्पानं दुग्धं कण्ठरोगवता / सुपानं पयः भवता / ईषत्पानमित्यादि /