SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ( 387) जीर्यतेऽनेनेति जारः / दारयन्तीति दाराः इत्यपि / 'जाले वाध्ये आनायोः निपात्यः ' आनायो जालं मत्स्यानां मृगाणां वा। उदकोऽतोये / 5 / 3 / 135 / . उत्पूर्वादञ्चतेः पुनाम्नि करणाधारयोः घञ् निपात्यते, अतोये तोयविषयश्चद् धात्वर्थो न भवति / तैलोदकः / घृतोदकः / अतोय इति किम् उदकोदञ्चनः / खनो डडरेकेकवकघं च / 5 / 3 / 137 / खनेः पुनाम्नि करणाधारयोः - डडरइकइकवकघघञ् च प्रत्यया भवन्ति / आखायते आखन्यते वाऽनेनास्मिन् वा आखः / आखरः / आखनिकः / आखनिकवकः / आखनः / आखानः / - इकिस्तिव स्वरूपार्थे / 5 / 3 / 138 / धातोः स्वरूपेऽर्थेऽभिधेये च इकिस्तिव् इत्येते प्रत्यया भवन्ति / भञ्जिः / क्रुधिः / बुधिः / मनिः / अर्थे यजेरङ्गानि / भुजिः क्रियते / पचतिवर्तते / गच्छतिः / दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल् / 5 / 3 / 139 / - कृच्छ्रे दुःखम् , अकृच्छ्रे सुखम् , कृच्छ्रार्थवृत्तेः दुरः साम•दकृच्छ्रार्थवृत्तिभ्यां स्वीषद्भ्यां पराद् धातोः भावकर्मणोरर्थयोः खल् प्रत्ययो भवति / दुःखेन शय्यते इति दुःशयम् , सुखेन शय्यते इति सुशयम् , ईषच्छयं भवता / सुखेन, क्रियते इति सुकरः,
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy