________________ ( 386) पणायन्ति यस्मिन् स आपणः / निगच्छन्ति यत्रेति निगमः / वक्तीति बकः / भज्यतेऽस्मिन्निति भगः / भगमिति तु बाहुलकात् क्लीबेऽपि घे सिद्धे सिद्धम् / कषत्यस्मिन्निति कषः / एवमाकषः / निकषः / व्यअनाद् घञ् / 5 / 3 / 132 / व्यञ्जनान्ताद् धातोः पुंनाम्नि करणाधारे घञ् भवति / विदन्त्यनेनेति वेदः / चेष्टतेऽनेनेति चेष्टः बलम् / एवमापाकः / आरामः / लेखः / बन्धः। वेगः / रागः। रङ्गः / प्रासादः / अपामार्गः / अवात् तृस्तृभ्याम् / 5 / 3 / 133 / . अवपूर्वाभ्यां तृस्तृभ्यां करणाधारे पुंनाम्नि घञ् भवति / अवतरन्त्यस्मिन्निति अवतारः / अवस्तृणन्त्यस्मिन्निति अवस्तारः बाहुलकादसञ्ज्ञायामपि / अवतारो नद्याः / न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् / 5 / 3 / 134 / एते शब्दा घनन्ताः पुंनाम्नि करणाधारयोः निपात्यन्ते / घस्यापवादः / निपूर्वस्येणः नीयतेऽनेनेति न्यायः / एत्य वयन्ति यस्मिन्निति अवायः / अधीयतेऽनेनास्मिन्निति वाऽध्यायः / उद्युवन्ति येनेत्युद्यावः / संहरन्ति येन संहारः / अवहरन्ति येनावहारः / आध्रियते यत्रेत्याधारः / दीर्यन्ते एभिः दाराः / चार /