________________ ( 385) मुन्यादिभ्यः पत्यादिभ्यश्च धातुभ्यो यथासंख्यं कर्मण्यपादाने चानड् भवति / मुज्यते इति भोजनम् / निरदन्ति तदिति निरदनम् / अपादाने प्रपतत्यस्मादिति प्रपतनः / प्रस्कन्दनः / निर्झरणः / अपादानम् / करणाधारे / 5 / 3 / 129 / / करणे आधारे चार्थो धातोरनड् भवति / करणे एषणी / लेखनी / विचयनी / इध्मत्रश्चनः / पलाशशातनः / श्मश्रुकर्तनः / आधारे गोदोहनी / सक्तुधानी / तिलपीडनी / शयनम् / आसनम् / अधिकरणम् / आस्थानम् / पुंनाम्नि घः / 5 / 3 / 130 / पुंसः नाम पुंनाम, तत्र गम्यमाने करणाधारयोः धातोः घः भवति / करणे प्रच्छदः। उरच्छदः / दन्तच्छदः। आधारे आकरः। भवः / लयः / विषयः / / गोचरसंचरवहबजव्यजखलापणंनिगमबकभगकषाकप निकषम् / 5 / 3 / 131 / - एते करणाधारयोः घप्रत्ययान्ता निपात्यन्ते पुंनाम्नि / गावश्वरन्त्यस्मिन्निति गोचरः देशः / इदं व्युत्पत्तिमात्रं विषयस्य तु सज्ञा / सर्वसंविदामनेकान्तात्मकं वस्तु गोचरः / संचरन्तेऽनेनेतिसंचरः / वहन्ति येन वहः वृषस्कन्धदेशः / वजन्त्यस्मिन्निति बनः / व्यजत्यनेनेति व्यजः / खलन्त्यस्मिन्निति खलः / एत्य - 25