________________ (384) छात्रस्य ।नृत्तं मयूरस्य / व्याहृतं कोकिलस्य / गतं गजस्य। क्लीब इति किम् ? हसः / हासः / * अनट् / 5 / 3 / 124 / '. क्लीवे भावेऽर्थे धातोः अनट् प्रत्ययो भवति / ममनम् / वचनम् / हसनम् / यत्कर्मस्पर्शात् कर्बङ्गसुखं ततः। 5 / 3 / 125 / / येन कर्मणा संस्पृश्यमानस्य कर्तुः अङ्गस्य सुखमुत्पद्यते ततः कर्मणः पराद् धातोः क्लीवे भावेऽनड् भवति / पूर्वेण सिद्धे नित्यसमासार्थ वचनम् / पयःपानं सुखम् / ओदनभोजनं सुखम् / कर्मेति किम् ? तूलिकाया उत्थानं सुखम् / स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् / कत्रिति किम् ? शिष्येण गुरोः स्नापनं सुखम् / अङ्गेति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् / सुखमिति किम् ? कण्टकानां मर्दनं सुखम् / रम्यादिभ्यः कर्तरि / 5 / 3 / 126 / रम्यादिभ्यो धातुभ्यः कर्तर्यनड् भवति / रमणी। कमनी / नन्दनी। कारणम् / 5 / 3 / 127 / कृग्धातोः कर्तर्यनट् प्रत्ययो वृद्धिश्च निपात्यते / करोतीति कारणम् / भुजि-पत्यादिभ्यः कर्मापादाने / 5 / 3 / 128 /