________________ ( 381) वेदना / आसना / श्रन्थना / घट्टना / वन्दना / वेत्तीति तिन्निदेशद् ज्ञानार्थ एव परिग्राह्यः / इषोऽनिच्छायाम् / 5 / 3 / 112 / अनिच्छायां वर्तमानादिषेः भावाकोः स्त्रियामनो भवति / एषणा / अन्वेषणा / पिण्डैषणा। अनिच्छायामिति किम् ? इष्टिः / वित्तैषणा, प्राणैषणा, परलोकैषणा इत्यादयस्तु बहुलाधिकारात् / पर्यधेर्वा / 5 / 3 / 113 / पर्यधिपूर्वादिषेः भावाकोंः स्त्रियामनिच्छायां वर्तमानाद् अनो वा भवति / पर्येषणा, परीष्टिः / अध्येषणा, अधीष्टिः / क्रुत्सम्पदादिभ्यः क्विप् / 5 / 3 / 114 / अनुपसर्गपूर्वेभ्यः क्रुधादिभ्यः समादिपूर्वेभ्यश्च पदादिभ्यः स्त्रियां भावाकोः क्विब् भवति / क्रुत् / युत् / क्षुत् / तृड् / रुक् / शुक् / मुत् / सम्पद् / विपद् / आपद् / प्रतिपद् / संसत् / परिषत् / आशीः / प्रतिश्रुत् / उपानत् / समित् / आकृतिगणोऽयम् / भ्यादिभ्यो वा / 5 / / 115 / बिभेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकोः क्विा वा भवति। भी:, भीतिः / हीः, हीतिः / लूः, लूनिः / भूः, भूतिः / कण्डः, कण्डूया / कृत् , कृतिः / भिद् , भित्तिः / दृक् , दृष्टिः / नक्, नष्टिः / ज्वरेः नूः, जुर्तिः /