________________ ( 380) पितोऽङ् / 5 / 3 / 107 / / षिद्धातुभ्यः भावाकोः स्त्रियामङ् भवति / डुपचींष् पाके पचा / क्षमा / घटा / त्वरा / व्यथा / प्रथा / जरा / भिदादयः / 5 / 3 / 108 / भिदादयः शब्दाः स्त्रियामड्प्रत्ययान्ताः भावाकोः निपात्यन्ते / भेदनं विदारणं सिदा / एवं छिदा / विदा। मृजा / दया। रुजा / अनुकम्पा / पृच्छा / क्षिपा / चूडा। भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः 5 / 3 / 109 / ___एभ्यो ण्यन्तेभ्यः भावाक!ः स्त्रियामङ् भवति / ण्यन्तत्वादने प्राप्ते वचनम् / भीषा / भूषा / चिन्ता। पूजा। कथा / कुम्बा / चर्चा / स्पृहा / तोला / दोला / उपसर्गादातः / 5 / 3 / 110 / उपसर्गपूर्वादाकारान्ताद् धातोः भावाकोंः स्त्रियामङ् भवति / उपदा / उपधा / प्रधा। विधा / संधा / प्रमा / प्रमि--- तिस्तु वादित्वात् / णिवेत्त्यासश्रन्थघट्टवन्देरनः / 5 / 3 / 111 / - ण्यन्तेभ्यो वेत्त्यादिभ्यश्च धातुभ्यः स्त्रियां भावाकोंः अनः प्रत्ययो भवति / कारणा / वारणा / धारणा / कामना / भावना।