________________ (378) प्रस्थितिः / उपस्थितिः / पक्षेऽपि प्रस्था / आस्था / व्यवस्था। उपस्थेत्यादयोऽपि। __ आस्यटि-ब्रज-यजः क्यप् / 5 / 3 / 97 / .. एभ्यो भावे स्त्रियां क्यब् भवति / आस्या। अट्या / व्रज्या / इज्या। भृगो नाम्नि। 5 / 3 / 981. भृगः परो भावेऽर्थे स्त्रियां सज्ञायां क्यब् भवति / भरणं भृत्या / नाम्नीति किम् ? भृतिः। भाव इत्येव भ्रियते इति भार्या वधूः / समजनिपनिषद्शीसुविदिचरिमनीणः / 5 / 3 / 99 / एभ्यो धातुभ्यो भावाकोः स्त्रियां क्यब् भवति / समजन्ति अस्यामिति समज्या / निपतन्त्यस्यामिति निपत्या। एवं निषद्या। शेतेऽस्यां शय्या / सुत्या / हिताहितं विदन्ति तयेति विद्या / चर्या / मन्या / इत्या / * कृगः श च वा / 5 / 3 / 100 / - कृधातोः भावाकोः स्त्रियां शः प्रत्ययो वा भवति, चकारात् क्यप् च / क्रिया, कृत्या / पक्षे कृतिः / मृगयेच्छायाच्यावृष्णाकृपामाश्रद्धाऽन्तर्धा / 5 / 3 / 101 / एते स्त्रियां निपात्यन्ते / तत्रेच्छा भावे, शेषाः भावाकोंः / मृगयतेः मृगया। इच्छते; इच्छा। अनयोः शः प्रत्ययः /