________________ ( 377) श्वादिभ्यः / 5 / 3 / 92 / शणोत्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावाकोः क्तिर्मवति / वक्ष्यमाणैः क्विबादिभिः सह समावेशाथ वचनम् / श्रुतिः, प्रतिश्रुत् / स्तुतिः, प्रतिस्तुत् / संपत्तिः, संपत् / विपत्तिः, विपद् / आसत्तिः, संसद् / संवित्तिः, संवित् / पक्तिः, पचा / इष्टिः, इच्छा / मतिः, मन्या इत्यादि / समिणासुगः / 5 / 3 / 93 / सम्पूर्वादिणः आङ्पूर्वात् सुगश्च स्त्रियां क्तिः भवति / क्यपोऽपवादः / समितिः। आसुतिः / अन्यत्र इत्या, सुत्या इति क्यवेव / सातिहेतियूतिजूतिज्ञप्तिकीर्ति / 5 / 3 / 94 / एते क्तिप्रत्ययान्ताः स्त्रियां निपात्यन्ते / सिनोतेः सुनोतेः स्यतेर्वा आत्वमित्वाभावश्च निपात्यते सातिः / हिनोतेः हन्तेर्वा हेतिः / यौतेः यूतिः / जवते: जूतिः / ज्ञपयतेः ज्ञप्तिः / कीर्तयतेः कीर्तिः / ज्ञपि-कीर्योः ण्यन्तलक्षणोऽनो न भवति। . गा-पा-पचो भावे / 5 / 3 / 95 / एभ्यो भावेऽर्थे स्त्रियां तिर्भवति / संगीतिः / पिबतेः प्रपीतिः / पक्तिः / भावग्रहणादन्यत्र कर्तृभिन्ने कारके क्तिबाध-- कोऽङेव भवति गापचोः; पाधातोस्तु आधारे स्थादिभ्यः कः, अपादाने उपसर्गादातः इत्यङ्। 'स्थाधातोः भावे वा क्तिर्वाच्या