________________ ( 376) कृतं निवृत्तमित्यस्मिन्नर्थे / पाकेन निर्वृत्तं पवित्रमम् / कृत्रिमम् / लब्ध्रिमम् / याचित्रिमम् / यजिस्वपिरक्षियतिपच्छो नः / 5 / 3 / 85 / .. एभ्यो भावाकोंः नः प्रत्ययो भवति / यज्ञः / स्वप्नः / रक्ष्णः / यत्नः / प्रश्नः / ____ उपसर्गाद् दः कि / 5 / 3 / 87 / उपसर्गपूर्वाद् दासज्ञकाद् धातोः भावाकोंः किः भवति / आदिः / प्रधिः / आधिः / निधिः / संधिः / समाधिः / व्याप्यादाधारे / 5 / 3 / 88 / कर्मणः पराद् दासज्ञकाद् धातोः आधारे कारके किर्भवति / जलं धीयतेऽस्मिन्निति जलधिः / शरधिः / इषुधिः / बालधिः / शेवधिः / अभिव्याप्तौ भावेऽनगिन् / 5 / 3 / 90 / / क्रियया स्वसम्बन्धिनः साकल्येनाभिसम्बन्धोऽभिव्याप्तिः / तस्यां गम्यमानायां धातोः भावेऽनजिन् इत्येतौ प्रत्ययौ भवतः / समन्ताद् रावः संरवणम् / सांराविणं वर्तते सेनायाम् / स्त्रियां क्तिः / 5 / 3 / 91 / धातोः भावाकोः स्त्रियां क्तिर्भवति / स्त्रियामिति प्रत्ययार्थविशेषणम् / कृतिः / हृतिः / चितिः / नीतिः / नुतिः / विभूतिः /