________________ ( 375 ) चिनोतेः भावाकोंर्घञ् तत्संनियोगे चादेः ककारादेशो भवति / आंकायमग्निं चिन्वीत / देहे कायः शरीरम् / आवासे ऋषिनिकायः / उपसमाधाने गोमयनिकायः / गोमयपरिकायः। . . माने / 5 / 3 / 81 / / ___माने गम्ये धातोः भावाकोंः घञ् भवति / मानमियत्ता, सा च द्वेधा संख्या परिमाणं च / एको निघासः / द्वौ निघासौ / समित्संग्राहः / तण्डुलसंग्राहः मुष्टिरित्यर्थः / मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरानिति अल एवायमपवादः, क्त्यादिभिस्तु बाध्यते / एका तिलोच्छृितिः / द्वे प्रसृती। स्थाऽऽदिभ्यः कः / 5 / 3 / 82 / स्थादिभ्यो धातुभ्यो भावाकोंः कः प्रत्ययो भवति / आखूनामुत्थानम् आखूत्थः वर्तते / शलभोत्थः / प्रतिष्ठन्त्यस्मिन्निति प्रस्थः सानुः / संतिष्ठन्तेऽस्यामिति संस्था। व्यवस्था / प्रपिबन्त्यस्यामिति प्रपा / विधः / आविधः / विघ्नः / दिवतोऽथुः / 5 / 3 / 83 / वितो धातोः भावाकोंस्थुः प्रत्ययो भवति। वेपथुः / वमथुः। श्वयथुः / स्फूर्जथुः / भ्रासथुः / नन्दथुः / क्षवथुः / दवथुः / ... वितस्त्रिमा तत्कृतम् / 5 / 3 / 84 / डितो धातोः भावाकोंः त्रिम भवति; तेन धात्वर्थेन