________________ ( 374) व्यध-जप-मद्भ्यः / 5 / 3 / 47 / / - एभ्योऽनुपसर्गेभ्यो भावाकर्लोरल् भवति / व्यधः / जपः। मदः / अनुपसर्गादित्येव आव्याधः / उपजापः / उन्मादः / नवा क्वण-यम-हस-स्वनः / 5 / 3 / 48 // अनुपसर्गेभ्य एभ्यो भावाकर्लोरल् वा भवति / क्वणः, क्वाणः / यमः, यामः / हसः, हासः / स्वनः, स्वानः / / वर्षविघ्नेऽवाद् ग्रहः / 5 / 3 / 50 / अवपूर्वाद् अहेवर्षविघ्ने वाच्ये भावाकोरल् वा भवति / अवग्रहः, अवग्राहः वृष्टेः प्रतिबन्ध इत्यर्थः / __ गो वस्त्रे / 5 / 3 / 52 / - प्रपूर्वाद् वृणोतेः वस्त्रविशेषे वाच्ये भावाकर्बोरलू वा भवति / प्रवरः, प्रावारः / यु-पू-द्रोर्घञ् / 5 / 3 / 54 / / उत्पूर्वेभ्य एभ्यो भावाकोंर्घञ् भवति / उद्यावः / उत्पावः / उदावः / समाहुय इति द्यूते, आहुय इति च सञ्ज्ञायां निपात्यौ'। समायः द्यूतम् / आह्वयः नाम / चितिदेहावासोपसमाधाने कश्चादेः / 5 / 3 / 71 / चितिः यज्ञेऽग्निविशेषः, तदाधारो वा / देहः शरीरम् / - आवासः निवासः / उपसमाधानमुपर्युपरि राशीकरणम् / एष्वयेंषु