________________ (371) माने वर्तमानात् पणेः भावाकोरल् भवति / मूलकस्य पणः / शाकपणः / मूलकादीनां व्यवहारार्थ परिमितो मुष्टिः इत्यर्थः / 'संमदप्रमदौ हर्षे निपात्यौ' / संमदः कोकिलानाम् / प्रमदः कन्यानाम् / अन्यत्र संमादः, प्रमादः इति घन् / . हनोऽन्तर्घनान्तर्घणौ देशे / 5 / 3 / 34 / ___ अन्तः पूर्वाद् हन्धातोः अल् प्रत्ययः घनघणादेशौ च देशेऽभिधेये भावाकोंः निपात्येते। अन्तर्हन्यतेऽस्मिन्निति अन्तर्धनः अन्तर्वणो वा वाहीकेषु देशविशेषः / अन्यत्र तु अन्तर्धातः / प्रघण-प्रघाणौ गृहांशे / 5 / 3 / 35 / प्रपूर्वाद् हन्धातोः गृहांशेऽभिधेये अल् प्रत्ययस्तद्योगे च घणघाणौ निपात्येते / प्रहन्यतेऽसौ प्रघणः, प्रघाणो वा गृहद्वारालिन्दकः / अन्यत्र प्रघातः / / निघोद्घसंघोद्घनाफ्यनोपघ्नं निमितप्रशस्तगणात्याधाना ___ङ्गासन्नम् / 5 / 3 / 36 / - हन्धातोः निघादयः यथासंख्यं निमितादिष्वर्थेषु वाच्येषु अल्प्रत्ययान्ता निपात्यन्ते / समन्ततो मितं तुल्यं वाऽविशेषेण मितं निमितं तुल्यारोहपरिणाहमित्यर्थः / निघा वृक्षाः, निघाः शालयः तुल्यारोहपरिणाहवन्त इत्यर्थः / यद् वा निर्विशेषं निश्चयेन वा हन्यन्ते ज्ञायन्ते इति निघा वृक्षाः निश्चयेन निर्विशेषेण वा ज्ञाता इत्यर्थः / निघा बृहतिका / निघं वस्त्रम् / उद्घः