SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ (370) निमादः / निगदः, निगादः / निपठः, निपाठः / निस्वनः, निस्वानः / निक्वणः, निक्वाणः / वैणे क्वणः / 5 / 3 / 27 / वीणायां भवो वैणस्तस्मिन् वर्तमानादुपसर्गपूर्वात् क्वणेः भावाकर्लोरल् वा भवति / प्रक्वणः, प्रक्वाणो वा वीणायाः / एवं निक्वणः, निक्वाणः / . युवर्णत्वशरणगमृद्ग्रहः / 5 / 3 / 28 / इवर्णान्तेभ्य उवर्णान्तेभ्यो वृदृवशरणगमिभ्यः ऋकारान्तेभ्यो ग्रहश्च भावाकोरल् भवति / घञोऽपवादः / चयः / निश्चयः / जयः / क्षयः / यवः / रवः / पवः / स्तवः / लवः / वरः / दरः / वशः। रणः / गमः / अवगमः / विगमः / करः / गरः / तरः / ग्रहः / समुदोऽजः पशौ / 5 / 3 / 30 / ___ आभ्यां परादजेः पशुविषयधात्वर्थे सति भावाकोरल् भवति / समजः पशूनाम् समूह इत्यर्थः / उदजः पशूनां प्रेरणमित्यर्थः / अन्यत्र समानः / सृ-ग्लहः प्रजनाक्षे / 5 / 3 / 31 / प्रजनविषयेऽक्षविषये च धात्वर्थे यथासंख्यम् आभ्यां भावाकोरल् भवति / प्रजनो गर्भग्रहणं तदर्थ स्त्रीषु पुंसां प्रथमं सरणम् उपसरः / अक्षाणां ग्लहः ग्रहणमित्यर्थः / पणेर्माने / 5 / 3 / 32 /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy