________________ ( 372) प्रशस्तः / गणः समूहः / संहतिः संघः / अत्याधीयन्ते छेड़नार्थ काष्ठादीनि यत्र तदत्याधानं उद्घनः / काष्ठोधनः / अङ्गं शरीराक्यवः अपहन्यतेऽनेनेत्यपधनः अङ्गम् / उपहन्यते समीपे ज्ञायते इत्युपनः आसन्नः / गुरूपन्नः / ग्रामोपन्नः / मृतिनिचिताभ्रे घनः। 5 / 3 / 37 / मूर्त्यादिष्वर्थेषु हन्तेरलं प्रत्ययः, घनादेशश्च निपात्यते / मूर्तिः काठिन्यम्।अभ्रस्य घनः काठिन्यमित्यर्थः। निचितं निरन्तरम् ; घनाः केशाः / घनाः शालयः / अभ्रं मेघः; घनः मेघः / व्ययोद्रोः करणे / 5 / 3 / 38 / वि अयस् द्रु इत्येतेभ्यः पराद् हन्धातोः करणेऽल् , घनादेशश्च निपात्यते। भावस्य कारकान्तरस्य च निषेधार्थ करणग्रहणम् / विहन्यते तिमिरमनेनेति विघनः / वयः पक्षिणो हन्यतेऽनेनेति वा विघनः / अयो हन्यतेऽनेनेति अयोधनः / द्रुः हन्यन्तेऽनेनेति द्रुधनः कुठारः / स्त्रियां तु परत्वादनठेव विहन्यतेऽनया विहननी / अयोहननी / द्रुहननी। स्तम्बाद् घ्नश्च / 5 / 3 / 39 / स्तम्बशब्दात् पराद् हन्धातोरल् प्रत्ययः, घ्न-घनौ चादेशौ करणे निपात्येते / स्तम्बः हन्यतेऽनेन स्तम्बनः दण्डः / स्तम्बधनो यष्टिः / स्त्रियामनदेव /