________________ ( 364) योरूच वा // 541 // युक् मिश्रणे इत्यस्मात् ष प्रत्ययः, ऊकारश्चान्तादेशोवा / यूषः पेयविशेषः / यूषा छाया / योषा स्त्री // 541 // मह्यविभ्यां टित् // 547 // . आभ्यां टिदिषः प्रत्ययो भवति / मह पूजायां महिषः सरिभः राजा च / महिषी राजपत्नी सरिभी च / अव रक्षणादौ अविषः समुद्रः राजा पर्वतश्च / अविषी द्यौः भूमिः गङ्गा च॥९४७॥ विदि-पृभ्यां कित् // 558 // आभ्यां किदुषः प्रत्ययो भवति / विदक् ज्ञाने विदुषः विद्वान् / पृश् पालनपूरणयोः पुरुषः पुमान् आत्मा च // 558 // / कलेमषः // 562 / कलि शब्दसंख्यानयोः इत्यस्मात् मषः प्रत्ययो भवति / कल्मषं पापम् // 562 // मावावद्यमिकमिहनिमानिकष्यशिपचिमुचियजिवृतृभ्यः - सः // 564 // एभ्यः सः प्रत्ययो भवति / मांक माने मासः त्रिंशदात्रः / वांक गतिगन्धनयोः वासः आटरूषकः / वद व्यक्तायां वाचि क्त्सः सर्णकः ऋषिः प्रियस्य च पुत्रस्याख्यानम् / अम गतौ अंसः मुजशिखरम् / कमूङ कान्तौ कंसः लोहनातिः विष्णोररातिः हिर