________________ कनै दीप्त्यादावित्यस्मादाशः प्रत्ययः, ईकारश्चाकारस्य भवति। कीनाशः कर्षकः वर्णसंकरः कदर्यश्च / तथा 'लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च / योऽश्नाति वाऽऽममांसं स च कीनाशो यमश्चैव // 534 // कुलिकनिकणिपलिवडिभ्यः किशः // 535 // एभ्यः किद् इशः प्रत्ययो भवति / कुल बन्धुसंस्त्यानयोः कुलिशं वज्रम् / कनै दीप्त्यादौ कण शब्दे कनिशं कणिशं च सस्यमञ्जरी / पल गतौ पलिशं यत्र स्थित्वा मृगा व्यापाद्यन्ते / वड आग्रहणे सौत्रः बडिश मत्स्यग्रहणम् // 535 // बलेर्णिद् वा // 536 // बल प्राणनधान्यावरोधयोरित्यस्मात् किशः प्रत्ययः, स च णिद् वा / बालिशः, बलिशः मूर्खः / बलिशं बडिशम् // 936 // मस्ज़्यङ्किभ्यामुशः // 538 // आभ्यामुशो। भवति टुमस्जोंत् शुद्धौ ‘न्यद्गमेघादयः' इति गः मद्गुशः नकुलः / अकुङ् लक्षणे अञ्जुशः सृणिः॥५३८॥ वृ-क-त-मीङ्-माभ्यः षः // 540 // एभ्यः षः प्रत्ययो भवति / दृगट वरणे वर्षः भर्ता / वर्ष संवत्सरः। वर्षा ऋतुः / कृत् विक्षेपे कर्षः उन्मानविशेषः / तृ प्लवनतरणयोः तर्षः प्लवः हर्षश्च / मींच् हिंसायां मेषः उरभ्रः / मांक माने माषः धान्यविशेषः हेमपरिमाणं च // 540 //