________________ ण्यमानं च / हनक हिंसागत्योः हंसः श्वेतच्छदः / मानि मसं तृतीयो धातुः / कष हिंसायां कक्षः तृणं गहनारण्यं शरीरावयवश्च / अशौटि व्याप्तौ अक्षाः प्रासकाः / अक्षाणि इन्द्रियाणि रथचक्राणि च / डुपचीष् पाके पक्षः अर्धमासः वर्गः शकुन्यवयवः सहायः साध्यं च / मुच्छंती मोक्षणे मोक्षः मुक्तिः / यजीं देवपूजादौ यक्षः गुह्यकः / वृगश् वरणे वर्सः देशः समुद्रश्च / त प्लवनतरणयोः तर्सः वीतंसः सूर्यश्च // 564 // सू-वयिभ्यां णित् // 570 // आभ्यां णिदसः प्रत्ययो भवति। सूं गतौ सारसः पक्षिविशेषः। वयि गतौ वायसः काकः // 570 // कृ-कुरिभ्यां पासः // 583 // आभ्यां पासः प्रत्ययो भवति / डुकंग करणे कर्पासः पिचुप्रकृतिः वीरुच्च / कुरत् शब्दे कूपोसः कचुकः॥ 583 // कलि-कुलिभ्यां मासक् // 584 // आभ्यां किद् मासः प्रत्ययो भवति / कलि शब्दसंख्यानयोः कल्मासं शबलम् / कुल बन्धुसंस्त्यानयोः कुल्मासः अधस्विन्नं माषादि // 584 // लूगो हः // 586 // लुनातेः हः प्रत्ययो भवति / लोहं सुवर्णादि // 586 //