________________ (360) કે દ ર દ ર शमि-कमि-पलिभ्यो बलः // 499 // ... एभ्यो बलः प्रत्ययो भवति / शमूच उपशमे शम्बलं पाथेयम् / कमूङ कान्तौ कम्बलः ऊर्णापटः / पल गतौ पल्वलम् अकृत्रिमोदकस्थानविशेषः // 499 // लटिखटिखलिनलिकण्यशौसशकगढ़पशपिश्याशालापदिह सीणभ्यो वः // 505 // एभ्यो वः प्रत्ययो भवति / लट बाल्ये लट्वा शुद्रचटका कुसुम्भं च / खट काझे खट्वा शयनयन्त्रम् / खल संचये च खल्वं निम्नं खलीनं च / खल्वा दतिः / णल गन्धे नल्वः भूमानविशेषः। कण शब्दे कण्वः ऋषिः / कण्वं पापम् / अशौटि व्याप्तौ अश्वः तुरगः / सं गतौ सर्वः शम्भुः / शश् हिंसायां शर्वः शम्भुः / कृत् विक्षेपे कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च / गृत् निगरणे गर्वः अहङ्कारः / दृश् विदारणे दर्वा जनपदः / दर्वः हिंस्रः / पृश् पालनपूरणयोः पर्वः रुद्रः काण्डं च / शपी आक्रोशे शवः आक्रोशः / श्यैङ् गतौ श्यावः वर्णः / शोंच तक्षणे शावः तिर्यग्वालः / लांक आदाने लावः पक्षिजातिः / पदिंच् गतौ पदः रथः वायुः भू.-. कश्च / इस शब्दे हस्वः लघुः / इण्क् गतौ एवः केवलः / एव इत्यवधारणे निपातश्च // 505 // शीङापो ह्रस्वश्च वा // 506 // : आभ्या व प्रत्ययः, हस्वश्च वा भवति / शीङक् स्वप्ने शिव