________________ ( 361) क्षेम सुख मोक्षपदं च / शिवा हरीतकी। शेवं धनम् / शेवः अजगरः सुखकृच्च / शेवा प्रचला निद्राविशेषः मेटूश्च / आप्लंट व्याप्तौ अप्वा देवायुधम् / आप्वा वायुः // उर्देध् च // 507 // उर्दि मानक्रीडयोश्चेत्यस्माद् वः प्रत्ययः, धश्चान्तादेशो भवति / उर्ध्वः उद्वा / उर्ध्वम् उपरि। ऊर्ध्वं परस्तात् // 507 // लिहेर्जिह च // 513 // लिहीक् आस्वादने इत्यस्माद् वः प्रत्ययः, अस्य च जिह् इत्यादेशो भवति / जिहा // 513 // मणि-चसेणित् // 516 // आभ्यां णिद् अवः प्रत्ययो भवति / मण शब्दे माणवः शिष्यः / वसं निवासे वासवः शक्रः // 516 // मलेर्वा // 5.17 // मलि धारणे इत्यस्मादवः प्रत्ययः, स च णिद् वा भवति / मालवा जनपदः / मलवः दानवः // 517 // प्रथेरिवट् पृथ् च // 521 // प्रथिष् प्रख्याने इत्यस्माद् इवट् प्रत्ययः, अस्य च पृथ् इत्यादेशो भवति / पृथिवी भः // 521 // पा-दा-वम्यमिभ्यः शः // 527 //