________________ (359) मुपि-मिथि-ध्रुभ्यः कित् // 483 // * एभ्यः किद् इलः प्रत्ययो भवति / गुपौ रक्षणे गुपिलं गहनम् / मिथुग मेधाहिंसयोः मिथिला नगरी। धुं स्थैर्ये च ध्रुविला . ऋषिः // 483 // महेरेलः // 492 // ___मह पूजायामित्यस्मादेलः प्रत्ययो भवति / महेला स्त्री // 492 // कटिपटिकण्डिगण्डिश किकपिचहिभ्य ओलः // 493 // एभ्य ओलः प्रत्ययो भवति / कंटे वर्षावरणयोः कटोल: कटविशेषः वादिनविशेषश्च / कटोला ओषधिः / पट गतौ पटोला वल्ली विशेषः / कडु मदे कण्डोलः विदलभाजनविशेषः / गडु वदनैकदेशे गण्डोलः कृमिविशेषः / शक्लंट शक्तौ शकोलः शक्तः / कपिः सौत्रः कपोल: गंण्डः / चह कल्कने चहोल: उपद्रवः // 493 // ग्रह्याद्भ्यः किंत् // 494 // ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोल: प्रत्ययो भवति / ग्रहीश उपादाने गृहोलः बालिशः / कायतेः कोलः बदरी वराहश्च / गायतेः गोल: वृत्ताकृतिः / गोला गोदावरी बालरमणकाष्ठं च / पातेः पोला तालाख्यं कपाटबन्धनं परिखा च / लातेः लोलः चपलः / ददातेर्दयतेद्यतेर्वा दोला प्रेक्षणम् // 494 //