________________ ( 358) आभ्यामलः प्रत्ययो गकारश्चान्तो भवति / ऋक् . गतौ अर्गला परिघः / जनैचि प्रादुर्भावे जङ्गलं निर्मलो देशः // 467 // कुलिपिलिविशिविडिमृडि कुणिपीप्रीभ्यः कित् // 476 // ___ एभ्यः किदालः प्रत्ययो भवति / कुल बन्धुसंस्त्यानयोः कुलालः कुम्भकारः / पिलत् क्षेपे पिलालं श्लिष्टम् / विशंत् प्रवेशने विशालं विस्तीर्णम् / बिड आक्रोशे विडाल: मार्जारः / लत्वे बिलालः स एव / मृणत् हिंसायां मृणालं बिसम् / कुणत् शब्दोपकरणयोः कुणालः कृतमालः कटविशेषश्च / कुणालं नगरं कठिनं च / पीच् पाने पियाल: वृक्षः, पियालं शाकं वीरुच्च / प्रीच् प्रीती प्रियाल: पियालः // 476 // कल्यनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितुण्डिपिण्डिभृकुकिभ्य इलः // 481 // एभ्य इलः प्रत्ययो भवति / कलि शब्द-संख्यानयोः कलिलं गहनं पापम् आत्माधिष्ठितं च शुक्रार्तवम् / अनक् प्राणने अनिलः 'वायुः / मह पूजायां महिला स्त्री / द्रम गतौ द्रमिलाः त्रैराज्यवासिनः / जट झट संवाते जटिलः जटावान् / भट भृतौ भटिलः श्वा सेवकश्च / कुटत् कौटिल्ये कुटिलं वक्रम् / चडुङ् कोपे चण्डिलः श्वा क्रोधनः नापितश्च / शडुङ् रुजायां शण्डिलः ऋषिः / तुडुङ तोडने तुण्डिलः वाग्जाली / पिडुङ संघाते पिण्डिलः मेघः हिंस्रः हिमः गणकश्च / भू सत्तायां भविलः मुनिः समर्थः गृहं बहुनेता च / कुकि आदाने कोकिलः परभृतः // 481 //