________________ शृश् हिंसायां गुणः कोऽन्तश्च शर्कुरः तरुणः / णूत् स्तवने पोऽन्तश्च नूपुर: तुलाकोटिः / निपूर्वात् तिष्ठतेः निष्ठुरः कर्कशः / निष्ठुरं काहलम् / व्यथेर्विथ् च व्यथतेऽस्माजनः इत्यपादानेऽपि विथुरः राक्षसः / मदिवात्योर्गोऽन्तश्च मद्गुरः मत्स्यविशेषः / वागुरा मृगानायः / आदिग्रहणाद् मन्यतेर्धश्च मधुरः रसविशेषः इत्यादि // 426 // . मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्य ऊरः॥ 427 // एभ्य ऊरः प्रत्ययो भवति / मीच हिंसायां मयूरः शिखी / मयां रौतीति वा मयूरः पृषोदरादिषु सञ्ज्ञाशब्दानामनेकधा व्युत्पत्तिं लक्षयति / मसैच् परिमाणे मसूरः अवरधान्यजातिः चर्मासनं च / पशिः सौत्रः पश्यते गम्यते इति पशूरः ग्रामः / खट काझे खटूरः मणिविशेषः / खडण् भेदे खडूरः खुरलीस्थानम्। खर्ज मार्जने च खजूरः वृक्षविशेषः / कर्न व्यथने करः स एवं मलिनश्च / सर्न अर्जने सजूरः अहः / कृपौङ् सामर्थ्य कर्पूरः गन्धद्रव्यम् / वल्लि संवरणे वल्लूरः शुष्कं मांसम् / मडु भूषायां मण्डूरः धातुविशेषः // 427 // अश्नोतेरीचादेः // 442 // अशौटि व्याप्तौ इत्यस्माद् वरट् प्रत्ययः, ईकारश्चादेर्भवति / ईश्वरः विमुः / ईश्वरी स्त्री // 442 // ट् // 446 //