________________ (395) एभ्य उरः प्रत्ययो भवति / वाशिच् शब्दे वाशुरः शकुनिः गर्दभश्च / वाशुरा रात्रिः / असूच क्षेपणे असुरः दानवः / वासण उपसेवायां वासुरा रात्रिः मसुरा च / मसैच् परिमाणे मसुरा पण्यस्त्री / मसुरं चर्मासनं धान्यविशेषश्च / मथे विलोडने मथुरा नगरी / उन्दैप् क्लेदने उन्दुरः मुषिकः / मदुङ स्तुत्यादौ मन्दुरा वाजिशाला / चतेग याचने चतुरः विदग्धः / चङ्किः सौत्रः चङ्कति चेष्टते चकुरः रथः अनवस्थितश्च / अकुङ् लक्षणे अङ्कुरः प्ररोहः तरुातानभेदश्च / घन्युपतर्गस्य बहुलमिति बहुलवचनात् दीर्घत्वे अङ्करः / कर्व गतौ कर्बुरः शबलः / चकि तृप्तिप्रतिघातयोः चकुरः दशनः / बन्धश् बन्धने बन्धुरः मनोज्ञः नम्रश्च // . . श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुरकुकुरकुक्कुरकुर्कुरशर्कुर नूपुरनिष्ठुरविथुरमद्गुरवागुरादयः // 426 // . एते किदुरप्रत्ययान्ता निपात्यन्ते / आशुपूर्वात् शुपूर्वाद् वा अन्नातेः अश्नोतेर्वा आकारलोपश्च / श्वशुरः जम्पत्योः पिता / कुपूर्वात् स्कुदुङ् आप्रवणे इत्यस्मात् सलक् च / कुकुन्दरौ नितम्बकूपौ / दृणातेर्दोऽन्तश्च दर्दुरः मण्डूक: मेघश्च / निपूर्वात् प्रपूर्वात् चिनोतेः चरतेर्वा डिच्च निचुरः तरुविशेषः / लत्वे निचुलः / प्रचुरं प्रायः / चकेरिच्चास्य चिकुरं युवतीनामीपनिमीलितमक्षि / चिकुराः केशाः / कुकेः कोऽन्तो वा कुकुरः . यादवः / कुक्कुरः श्वा / किरः कुर् कोऽन्तश्च कुर्कुरः श्वा /